“एओङ्, ऐऔच् इति माहेश्वरसूत्रसम्बद्धानां ज्ञापकानां ताताचार्यनिर्दिष्टविवृत्यनुसारम् अध्ययनम् ।”
Keywords:
एओङ्, ऐऔच्, ज्ञापका:, माहेश्वरसूत्राणि, महर्षिपाणिनि: ।Abstract
एओङ् 1 , ऐऔच् 2 इति माहेश्वरसूत्रसम्बद्धानां ज्ञापकानाम् आचार्यनागेशभट्टेन विरचितं ज्ञापकसङ्ग्रहमाश्रित्य महद्भिः म. म. नावल्पाक्कं शठकोपरामानुजताताचार्यैः या विवृतिव्याख्या लिखिता तस्याः अत्र समीक्षात्मकम् अध्ययनं क्रियते । ज्ञापकसङ्ग्रहः इति ग्रन्थनान्मा एव प्रतीयते यत् व्याकरणशास्त्रगतानां केषाञ्चित् विशिष्टविचाराणां ज्ञापनाय यानि स्थलानि निर्दिष्टानि तेषां स्थलानामेकत्र सङ्ग्रहः अत्र कृतः इति। तादृशानां ज्ञापकानां ज्ञापकत्वमाश्रित्य आचार्यैः महद्भिः ताताचार्यैः व्याख्या कृता । प्रथमं तावत् प्रधानतया ज्ञापकसङ्ग्रहनामके ग्रन्थे समाविष्टानां
ज्ञापकस्थलानां सङ्ग्रहपूर्वकं व्याख्यानं व्यधायि ताताचार्यैः। ततः पश्चात् ज्ञापकसङ्ग्रहे अविद्यमानानामपि महाभष्ये कौमुद्यां वा लभ्यमानानां ज्ञापकानां सङ्ग्रहोऽकारि। अस्मिन् शोधपत्रे
नागेशभट्टकृतज्ञापकसङ्ग्रहे विद्यमानानां एओङ्, ऐऔच् इति माहेश्वरसूत्रसम्बद्धानां ज्ञापकस्थलानां विषये ताताचार्यैः ये विचाराः प्रस्तुताः तेषां समीक्षा क्रियते। तदूर्ध्वं ज्ञापकसङ्ग्रहे
अविद्यमानानामपि महाभष्ये कौमुद्यां वा लभ्यमानानाम् एओङ्, ऐऔच् इति माहेश्वरसूत्रसम्बद्धानां ज्ञापकानां विषये ताताचार्याणां विचाराणां समीक्षा क्रियते ।
Downloads
Metrics
References
१. ज्ञापकसङ्ग्रह: (म.म.श्रीरामानुजताताचार्य विवृतिसमेत:) नागेशभट्ट: सम्पादक: - म.म.श्रीरामानुजताताचार्य:, २००२ केन्द्रिय-संस्कृत-विश्वविद्यालय:, तिरुपति:
२. परिभाषेन्दुशेखर: (मराठीभाषान्तरसहित:) नागेशभट्ट: भाषांतरकर्ता – रा. ब. वाडेगावकर, नागपूर
३. परिभाषेन्दुशेखर: (‘सुबोधिनी‘ हिंदी व्याख्ययोपेत:) नागेशभट्ट: व्याख्याकार: - आचार्य: विश्वनाथमिश्र: चौखंबा सुरभारती प्रकाशन, वाराणसी
४. व्याकरणमहाभाष्यम् (‘ज्योत्स्ना’ समुद्भाषितम्) महर्षि: पतञ्जलि:, डॉ. हरीनिरायण: तिवारी चौखंबा सुरभारती प्रकाशन, वाराणसी
५. वैयाकरणसिद्धान्तकौमुदी (बालमनोरमासहिता दीपिकाख्यव्याख्ययोपेता च) भट्टोजिदीक्षित:, गोपालदत्त- पाण्डेय:, चौखंबा सुरभारती प्रकाशन, वाराणसी
६. संस्कृत व्याकरणशास्त्र का युधिष्ठिर: मीमांसक: इतिहास श्यामलाल कपूर ट्रस्ट, सनिपात, हरियाणा