आख्यातार्थसन्दर्भे कर्त्थधिकरणसमन्वयधवमर्थः
Keywords:
कर्त्रधिकरणम्, जञ्जभ्यमानाधिकरणम्, भावना, क्रतुः, पुरुषः, विधिः, अनुवादः।Abstract
जैमिनीयसूत्रपाठे तृतीयाध्याये चतुर्थपादे "नानृतं वदेदि' 'ति' वाक्यमाश्रित्य मीमांसकैराख्यातस्य कर्तृवाचकत्वावाचकत्वयोः विषये पूर्वपक्षसिद्धान्तयोः उपस्थापनं कृतम्। अतस्तदधिकरणं कर्त्रधिकरणमिति प्रसिद्धम्। तत्राख्यातस्य कर्जाद्यर्थकत्वं स्वीकुर्वतां वैयाकरणानां मते अनृतवर्जनस्य ऋतुयुक्तपुरुषार्थत्वमिति सिद्धान्तः। आख्यातस्य भावनार्थकत्वं मन्वाना मीमांसकास्तु अनृतवर्जनस्य शुद्धक्रत्वर्थत्वमिति निरूपयन्ति। एवं मतविरोधात् तत्तत्सम्प्रदाये कर्त्रधिकरणस्थयोः पूर्वपक्षसिद्धान्तयोः उपन्यासो भिद्यते। प्रकृतप्रबन्धे नागेशभट्ट-कुमारिलभट्टौ मुख्यौ मल्लौ वर्तते। अत्र प्रथमतः तत्तन्मतदिशा कर्त्रधिकरणस्य समन्वयः प्रदर्शितस्तदनु विस्तरेण विमर्शः प्रस्तुतः।


