राष्ट्रियशिक्षानीतौ प्रतिबिम्बितम् औपनिषदिकं शिक्षादर्शनम्
Keywords:
उपनिषद्, भारतीयः, शिक्षानीतिः, संस्कृतिः, राष्ट्रियः वेदः NCERTAbstract
विश्वस्मिन्विश्वे वैदिकवाङ्गयं प्राचीनतमसाहित्यमस्तीति सर्वैरपि विद्वद्भिः सहर्षमङ्गीक्रियते। वैदिकसाहित्यमिदम् अत्यन्तविस्तृतं सुसङ्घटितञ्च वर्तते, यच्च संहिता-ब्राह्मण-आरण्यक-उपनिषत्सु चतुर्ष भागेषु विभक्तम्। वैदिकवाङ्गयस्य विकासक्रमे आरण्यकानामनन्तरमुपनिषदां स्थानमस्ति। उपनिषत्शब्देन तात्पर्यं 'समेषाम् अर्थात्पादकानां सांसारिकक्रियाकलापानां विमोहकर्जी विद्या' इति। उपनिषत्सु गुरुशिष्ययोः संवादरूपेण आत्मा-ब्रह्म-जगत्-इत्यादिगूढविषयाणां सरलतापूर्वकं प्रतिपादनमस्ति। भारतीयसंस्कृतेः मान्यतानुसारं शिक्षा मुक्तिदात्री भवति 'सा विद्या या विमुक्तये'। शिक्षाव्यवस्था संस्कृतिसमाजयोः विकासाय आधारभूता भवति। यस्याः दयनीयस्थित्या भारतशासनेन नूतनशिक्षानीतेः आवश्यकता अनुभूता। एतदर्थमेव ख्रीष्टस्य २०२० तमवर्षे नूतनराष्ट्रियशिक्षानीतिः (NEP-2020) निर्मिता। इयं भारतीयसंस्कृतेः महनीयतत्त्वैस्सह अर्वाचीनवैज्ञानिकदृष्टिकोणैः समन्विता अस्ति। एतस्यामुपनिषदाम् उदात्तविचाराणां प्रतिष्ठापनार्थ कीदृशः प्रयासः विहितः ? इति शोधपत्रेऽस्मिन् परिशीलनीयमस्ति।
राष्ट्रियशिक्षानीतौ विद्यालयी शिक्षा, उच्चतर शिक्षा, अन्याः केन्द्रीयविचारणीयाः बिन्दवः, क्रियान्वयनस्य रणनीतिश्चैते चत्वारः भागाः सप्तविंशति-अध्यायाञ्श्च सन्ति। अत्र भारतीयभाषाभिः स्वकीयज्ञानपरम्परायाः सांस्कृतिकसम्पदश्च ज्ञाने मुख्यं ध्येयमस्ति। राष्ट्रियशिक्षानीतिः उपनिषदां शिक्षादर्शनमुद्दिश्य निर्मिता। यस्य प्रभावः नूतनशिक्षानीतेः आलोके निर्मितायाम् 'आधारभूतस्तरस्य राष्ट्रियपाठ्यचर्यायाः रूपरेखायाम्' अपि दरीदृश्यते। या तैत्तिरीयोपनिषदः "पञ्चकोशविकासः" इत्यनेन सम्बद्धाऽस्ति । व्यक्तित्वनिर्माणप्रक्रियासन्दर्भ एते पञ्चकोशाः अत्यन्तप्रभावशालिनः भवन्ति। राष्ट्रियपाठ्यचर्यायाः राष्ट्रियशैक्षिकानुसन्धानप्रशिक्षणपरिषदा पञ्चकोशविकासमुद्दिश्य नूतनपाठ्यपुस्तकानां निर्माणमारब्धम्। राष्ट्रियशिक्षानीतौ उपनिषदां तर्कः प्रश्न: संवादश्च इत्यादिविधीनामनुगुणमधिगमस्य विभिन्नयुक्तयः अनुसृताः। अनेन उपर्युक्तविमर्शेण स्पष्टमस्ति यत् रूपरेखानुरूपं औपनिषदिकशिक्षादर्शनं भारतीयसंस्कृतौ महनीयं रत्नमिव प्रतिभाति। उपनिषदां शिक्षादर्शनस्य पञ्चकोशादितत्त्वानामङ्गीकरणेन राष्ट्रियशिक्षानीतौ अस्य स्पष्टप्रभावः दरीदृश्यते।


