शिक्षाव्याकरणप्राशििाख्यिास्त्रशििा अनुस्वारशववेकः

Authors

  • देवाशीष पात्र प्रकल्प-सहाय्यकः, संस्कृतविभागः, जादवपुर विश्वविद्यालयः

Keywords:

- अनुस्वारः, प्रातिशाख्यम्, शिक्षा, व्याकरणम्, वर्णोच्चारणम् ।

Abstract

'दुष्टः शब्दः स्वरतो वर्णतो वा...' इत्यादिवचनैः शास्त्रेषु अपशब्दप्रयोगः सर्वथा निन्द्यते। न केवलम् उदात्तादिस्वरभ्रमे वर्णान्तरप्रयोगे वा शब्दा दुष्टा इति कथ्यन्ते अपि तु उच्चारमस्थानभ्रष्टत्वात् कलत्वदोषेण मात्रास्खलनत्वात् धात्मत्वादिदोषैरपि शब्दानामपशब्दत्वं जायते। अतः अपशब्दप्रयोगेन यथा नः अवाग्योगविदः अज्ञानशरणाः स्यामः इत्यर्थमस्माभिः शब्दानां यथार्थस्वरूपं ज्ञात्वैव ते प्रयोक्तव्याः। शब्दज्ञानञ्च वर्णज्ञानापेक्षि, वर्णसंघातेनैव शब्दनिष्पत्तेः। संस्कृतवर्णसमाम्नाये त्रिषष्टिषु चतुष्षष्टिषु वा वर्णेषु अनुस्वारोऽन्यतमः। अथः शिक्षाव्याकरणादिषु अनुस्वारः पृथग्वर्णत्वेनादाय तच्छरूपं वैशद्येन स्पष्टीकृतं ग्रन्थकृद्भिः। परन्त्विदानीं तच्छरूपं न ज्ञात्वैव बहुत्रास्माभिः अपभ्रंशरूपः प्रयोगः क्रियते। अस्मिन् निबन्धे शास्त्रीयदिशा तस्य स्वरूपं पर्यालोच्यते येन अनुस्वारस्य प्रकृतस्वरूपं ज्ञात्वा यथार्थः प्रयोगः कर्तुं शक्यते।

Downloads

Download data is not yet available.

Downloads

Published

2024-07-30

How to Cite

पात्र द. (2024). शिक्षाव्याकरणप्राशििाख्यिास्त्रशििा अनुस्वारशववेकः. Shodhasamhita, 11(2), 59–67. Retrieved from https://kksushodhasamhita.org/index.php/sdsa/article/view/1618

Issue

Section

Articles