काव्ये रसस्वरूपमीमाांसा
Keywords:
रसः, उत्पत्तिः, निष्पत्तिः, वादः सम्प्रदायः संयोगः, व्यभिचारी, अनुभावः विभावः, अनुमितिः, भुक्तिः कृत्रिमम्।, नटः, अभिव्यक्तिःAbstract
काव्यस्य आत्मभूतस्य रसस्य विषयः अतिविस्तारतया लक्षणग्रन्थेषु प्रतिपाद्यते । नाट्यशास्त्रे दशरूपके च रूपकाणां रसानां च विचारः दृश्यते । श्रृङ्गारतिलकं रसतरङ्गिणी इत्यादिग्रन्थाः रससिद्धान्तं प्रतिपादयन्ति। रसः एव काव्यास्वादनार्थः सहृदयानाकर्षयति। रसं विना काव्यं नीरसं भवति । अतः रसः अपि प्रमुखं काव्यतत्त्वं भवति । एवञ्च संस्कृतसाहित्यं द्विधा कथ्यते। लौकिकसाहित्यं वैदिकसाहित्यञ्चेति । वैदिकसाहित्यं नाम चत्वारः वेदाः भवन्ति लौकिकसाहित्ये दृश्यं श्रव्यं च इति भेदद्वयं वर्तते। दृश्यं नाम नाटकादीनि भवन्ति । श्रव्ये गां पां चम्पूरिति भेदत्रयं भवति । एवञ्च दृश्यश्रव्यात्मकानि काव्यानि आनन्दस्यन्दीनि इति । एवं काव्यानि सहृदयानन्दजनकानि वर्तन्ते। रसाः आस्वाद्यमानाः भवन्ति काव्ये। शब्दार्थों काव्यमिति मम्मटप्रतिपादितं मतम्। एतावेव काव्यस्य शरीरमिति वक्तव्यम्। यथा शरीरस्याधिष्ठातृदेव आत्मा तथैव शब्दार्थरूपकाव्यशरीरस्यापि अधिष्ठातृदेवात्मनो विषये कल्पनन्नासमीचीनम्। कोऽयमात्मा काव्यशरीरस्येति विषये एकाधिकाः सम्प्रदायाः समुपलभ्यन्ते। एतेषु सम्प्रदायेषु ड्ङ्कारसम्प्रदायः अल, वक्रोक्तिसम्प्रदायः, रमणीयतावादिसम्प्रदायः रससम्प्रदायश्च रसालंकाररीतिवक्रोक्तिध्वन्यौचित्यादयः चर्चा एवं रीतिसम्प्रदायः, ध्वनिसम्प्रदायः, वैशिष्ट्येन गण्यन्ते । सन्ति। एतेषां प्रवर्तकानां क्रमेण भरतभामहवामनकुन्तकानन्दवर्धन क्षेमेन्द्रादिमतानां संक्षेपेण वर्णनं विधाय तदनन्तरं रसस्वरूपविषये रससूत्रस्य चतुर्णामालोचकानां ) भट्टलोल्लटशंकुकभट्टनायकाभिनवगुप्तादयदीनां) क्रमशः उत्पत्यनुमितिभुक्त्यभिव्यक्तिवादानां विवेचनम् वर्तते।


